मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् १२

संहिता

ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभा॑ः ॥

पदपाठः

ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् ।
सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥

सायणभाष्यम्

अनया स्तुतिमुपसंहृत्याभिमतं वम्रकः पार्थयते। हे असुर बलवन्निन्द्र त्वामेमैवमुक्तप्रकारेण महो महतो हविशः स्तोत्रस्य वा वक्षथाय वहनाय महतः स्वर्गादेः प्रापणाय वा पड्भिः पादैरुप सर्पत्। उपागमत्। स इयान उपागम्यमानः सन् करति करोतु स्वस्तिमविनाशमस्मै वम्रकाय। तथेषमन्नमूर्जं रसं सुक्षितिं सुनिवासं सम्यग्विश्वं सर्वमाभः। आहरतु॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५