मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् १

संहिता

इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।
दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

इन्द्र॑ । दृह्य॑ । म॒घ॒ऽव॒न् । त्वाऽव॑त् । इत् । भु॒जे । इ॒ह । स्तु॒तः । सु॒त॒ऽपाः । बो॒धि॒ । नः॒ । वृ॒धे ।
दे॒वेभिः॑ । नः॒ । स॒वि॒ता । प्र । अ॒व॒तु॒ । श्रु॒तम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

नवमेऽनुवाके त्रयोदश सूक्तानि। तत्रेन्द्र दृह्येति द्वादशर्चं प्रथमं सूक्तं वन्दनपुत्रस्य दुवस्योरार्षं वैश्वदेवम्। द्वादशी त्रिष्टुप्। शिष्टा जगत्यः तथा चानुक्रान्तम्। इन्द्र दवस्युर्वान्दनो वैश्वदेवं त्वंत्या त्रिष्टुबिति। गतो विनियोगः॥

हे इन्द्र मघवन्धनवन् त्वं त्वावदित् त्वत्सदृशमेव शत्रुबलं दृह्य मारय। किमर्थम् । भुजेऽस्माकं भोगाय। तदर्थमिहास्मिन्यज्ञे स्तुतः सन् सुतपाः सुतस्याभिषुतस्य सोमस्य पाता बोधि। बुध्यस्व। भवेत्यर्थः। किमर्थम् । नोऽस्माकं व्रुधे वर्धनाय। किञ्च देवेभिर्देवैः सह नोऽस्माकं श्रुतं विश्रुतं यज्ञं सविता सर्वस्य स्वस्वकर्मसु प्रेरको देवः प्रावतु। प्ररक्शतु। किञ्च सर्वतातिम् । स्वार्थिकस्तातिल्। सर्वां सर्वात्मिकाम्। यद्वा। सर्वे तायन्तेऽस्यामिति र्सतातिः। छान्दसो दीर्घः। तादृशीमदितिमुखण्डनीयां देवमातरमा व्रुणीमहे॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६