मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् २

संहिता

भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये ।
गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

भरा॑य । सु । भ॒र॒त॒ । भा॒गम् । ऋ॒त्विय॑म् । प्र । वा॒यवे॑ । शु॒चि॒ऽपे । क्र॒न्दत्ऽइ॑ष्टये ।
गौ॒रस्य॑ । यः । पय॑सः । पी॒तिम् । आ॒न॒शे । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

भराय सङ्ग्रामकारिणे सर्वेशां पोशकाय वेन्द्रायर्त्वियं काले जातं प्राप्तकालं भागं सु भर सुष्ठु सम्पादयत हे ऋत्विजः। तथा शुचिपे शुद्धस्य सोमस्य पात्रे क्रन्ददिष्टये शब्दितगमनाय । वायोः शीघ्रगमने हि शब्दः प्रत्यक्षः। तादृशाय वायवे देवाय प्र भरत भागमिति शेशः। यो देवो गौरस्य गौरवर्णस्य पशो पयसः पीतिं पानमानशे प्राप्नोति तस्मै वायवे। शिष्टमुक्तम्॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६