मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् ३

संहिता

आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते ।
यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

आ । नः॒ । दे॒वः । स॒वि॒ता । सा॒वि॒ष॒त् । वयः॑ । ऋ॒जु॒ऽय॒ते । यज॑मानाय । सु॒न्व॒ते ।
यथा॑ । दे॒वान् । प्र॒ति॒ऽभूषे॑म । पा॒क॒ऽवत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

सविता सर्वस्य प्रेरकः सूर्यो नोऽस्माकं सम्बन्धिन ऋजूयत ऋजुकामाय सुन्वतेऽभिषवं कुर्वते यजमानाय वयोऽन्नं पाकवत् पाकोपेतम्। व्यवहितमप्येतदत्र सम्बध्यते। आ साविषत्। आभिमुख्येन प्रसौति। सौतेर्ण्यन्ताल्लेटि रूपम्। यथा येन प्रकारेण देवान्प्रतिभूषेम प्रतिभवेम। भवतेर्लिङि सिप्यपौ। द्विविकरणता। यद्वा। भूष अलङ्कारे। भौवादिकः। भूषयमेत्यर्थः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६