मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् ४

संहिता

इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।
यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

इन्द्रः॑ । अ॒स्मे इति॑ । सु॒ऽमनाः॑ । अ॒स्तु॒ । वि॒श्वहा॑ । राजा॑ । सोमः॑ । सु॒वि॒तस्य॑ । अधि॑ । ए॒तु॒ । नः॒ ।
यथा॑ऽयथा । मि॒त्रऽधि॑तानि । स॒म्ऽद॒धुः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

इन्द्रो देवोऽस्मे अस्माकं सुमनाः सुमनस्कोऽनुग्रहचेता अस्तु। भवतु। विश्वहा सर्वेश्वप्यहःसु। राजा सोमश्च नोऽस्माकं सुवितस्य सुवितं स्तोत्रमभ्येतु अधिगच्छतु। यथा यथा येन येन प्रकारेणास्माकं मित्रधितानि मित्रनिहितानि धनानि सन्दधुः तथाधिगच्छतु सोमः। तथेन्द्रोऽपि सुमना अस्त्विति समन्वयः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६