मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् ५

संहिता

इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः ।
य॒ज्ञो मनु॒ः प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

इन्द्रः॑ । उ॒क्थेन॑ । शव॑सा । परुः॑ । द॒धे॒ । बृह॑स्पते । प्र॒ऽत॒री॒ता । अ॒सि॒ । आयु॑षः ।
य॒ज्ञः । मनुः॑ । प्रऽम॑तिः । नः॒ । पि॒ता । हि । क॒म् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

अयमिन्द्र उक्थेन शवसा स्तुत्येन बलेन परुः पर्व यज्ञियमस्मदीयं वा दधे। धारयति। हे ब्रुहस्पते आयुषो ममायुश्यस्य प्रतरीता प्रवर्धयितासि। भव। तथा यज्ञो मनुर्मन्ता प्रमतिः प्रकृष्टा मतिर्यस्य सनः पिता पालकः सन् कं सुखं प्रयच्छतु। यद्वा। यज्ञो मन्त्रो बुद्धिश्च प्रत्येकं सुखं प्रयच्छतु॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६