मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् ६

संहिता

इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।
य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

इन्द्र॑स्य । नु । सुऽकृ॑तम् । दैव्य॑म् । सहः॑ । अ॒ग्निः । गृ॒हे । ज॒रि॒ता । मेधि॑रः । क॒विः ।
य॒ज्ञः । च॒ । भू॒त् । वि॒दथे॑ । चारुः॑ । अन्त॑मः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

दैव्यं देवानां हितं सहो बलं यदस्ति तदिन्द्रस्य सुकृतम्। इन्द्रेण खलु सुष्थु सम्पादितम्। यद्वा। यत्सुकृतं दैव्यं सहो बलं मरुत्संज्ञकमस्ति तदिन्द्रस्य नु। इन्द्रस्य सम्बन्धि खलु। अथवा। इन्द्रस्य नु सम्बन्धि सुकृतं दैव्यं सहो देवार्हं बलमग्निर्गृहेऽस्मदीये यागगृहे वर्तत इति शेशः। इन्द्रस्य सम्बन्धी सुष्ठु सम्पादितो देवानां बलभूतोऽग्निर्गार्हपत्यः सेन् वर्तत इत्यर्थः। स चाग्निर्जरिता देवानां सोत्ता मेधिरः। मेधो यज्ञो हविर्वा। तद्वान् कविः क्रान्तप्रज्ञो यज्ञो यश्टव्यश्च भुत्। भवति। कुत्र विदथे यज्ञे। किञ्च सोऽग्निश्चारुश्चरणीयोऽन्तमोऽस्माकमन्तिकमतश्च॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६