मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् ७

संहिता

न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् ।
माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

न । वः॒ । गुहा॑ । च॒कृ॒म॒ । भूरि॑ । दुः॒ऽकृ॒तम् । न । आ॒विःऽत्य॑म् । व॒स॒वः॒ । दे॒व॒ऽहेळ॑नम् ।
माकिः॑ । नः॒ । दे॒वाः॒ । अनृ॑तस्य । वर्प॑सः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे देवाः वो युष्माकं गुहा गुहायां प्रच्छन्ने देशे भूरि प्रभूतं दुष्कृतं पापम् । द्रोहमित्यर्थः। न च कृम। तथाविष्ट्यमाविः सम्भुतं देवहेळनं देवानां क्रोधनं तन्निमित्तं द्रोहं न चकृम हे वसवो वासका देवाः। किञ्च हे देवाः नोऽस्माकमनृतस्य वर्पसो रूपस्य प्राप्तिर्माकिः। मा भुत्। इतः परं मानुशं रूपं मा भूदित्यर्थः। शिष्तमुक्तम्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७