मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् ९

संहिता

ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।
स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

ऊ॒र्ध्वः । ग्रावा॑ । व॒स॒वः॒ । अ॒स्तु॒ । सो॒तरि॑ । विश्वा॑ । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ ।
सः । नः॒ । दे॒वः । स॒वि॒ता । पा॒युः । ईड्यः॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे वसवो देवाह् सोतरि सोमाभिषवकर्तरि मयि ग्रावोर्ध्वौन्नतोऽस्तु तेनोच्छ्रितेन विश्वा द्वेषांसि सर्वानपि द्वेष्टॄन्सनुतर्निगूधान्युयोत। पृथक्कुरुत। स सविता देवो नोऽस्माकं पायुः पालयिता। क्रुवापाजीत्यादिनोण्। प्रत्ययस्वरः। स ईड्यः स्तोतव्यश्च॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७