मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् ११

संहिता

क्र॒तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् ।
पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

क्र॒तु॒ऽप्रावा॑ । ज॒रि॒ता । शश्व॑ताम् । अवः॑ । इन्द्रः॑ । इत् । भ॒द्रा । प्रऽम॑तिः । सु॒तऽव॑ताम् ।
पू॒र्णम् । ऊधः॑ । दि॒व्यम् । यस्य॑ । सि॒क्तये॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

क्रतुप्रावा कर्मणां पुरकः। प्रा पूरने। आतो मनिन्नित्यादिना वनिप्। जरिता स्तोत यजमानं साधु सोमः कृत इति स्तौति। यद्वा शश्वतां सर्वेशां जरियितेन्द्र इदिन्द्र एव सुतावतां सोमवताम् यजमानानामवो रक्शको भद्रा भद्रया स्तुत्या प्रमतिः। यस्येन्द्रस्य सिक्तये सेकाय पानायोधरुद्धततरं द्रोनकलशं पूर्णं सोमेन पूर्णं भवति स एवावः स एव प्रमतिरिति॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७