मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् १२

संहिता

चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।
रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥

पदपाठः

चि॒त्रः । ते॒ । भा॒नुः । क्र॒तु॒ऽप्राः । अ॒भि॒ष्टिः । सन्ति॑ । स्पृधः॑ । ज॒र॒णि॒ऽप्राः । अधृ॑ष्टाः ।
रजि॑ष्ठया । रज्या॑ । प॒श्वः । आ । गोः । तूतू॑र्षति । परि॑ । अग्र॑म् । दु॒व॒स्युः ॥

सायणभाष्यम्

हे इन्द्र ते भानुः प्रकाशश्चित्र आश्चर्यभुतश्चायनीयो जा। तथा क्रतुप्राः स भानुरस्माकं कर्मणां पूरकोऽभिष्तिरभ्येशणीयः। हे इन्द्र ते जरणित्राः स्तोतृणां धनस्य पूरयित्र्योऽधृष्टा अन्यैरप्रधृष्याः स्पृधः स्पर्धाः सन्ति। यस्मादेवं तस्माद्रजिष्थयर्जुतमया रज्या रज्ज्वा गोः पश्वः पशोरग्रं दुवस्युः परिचरणमिच्छन्नेतन्नामर्षिः परि तूतूर्शति। अभित्वरयति॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७