मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०१, ऋक् १

संहिता

उद्बु॑ध्यध्वं॒ सम॑नसः सखाय॒ः सम॒ग्निमि॑न्ध्वं ब॒हव॒ः सनी॑ळाः ।
द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिन्द्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥

पदपाठः

उत् । बु॒ध्य॒ध्व॒म् । सऽम॑नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः॑ । सऽनी॑ळाः ।
द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । इन्द्र॑ऽवतः । अव॑से । नि । ह्व॒ये॒ । वः॒ ॥

सायणभाष्यम्

उद्बुध्यध्वमिति द्वादशर्चम् द्वितियम् सूक्तम्। सोमपुत्र बुधस्यार्षम्। आ वो धियमिति नवमी कपृन्नर इत्यन्ता च द्वे जगत्यौ। चतुर्थीषष्ठ्यौ गायत्र्यौ। निराहावानिति पञ्चमी बृहती। शिष्टास्त्रिष्टुभः। विश्वेदेवा देवता। ऋत्विक्स्तुतिरूपोऽर्थो वा देवता। तथा चानुक्रान्तम्। उद्बुध्यध्वं बुधः स्ॐय ऋत्विक्स्तुतिर्वा नवम्यन्त्ये जगतौ गायत्र्योर्मध्ये पञ्चमी बृहतीति। गतः सूक्तविनियोगः॥

अग्निं चेश्यमाणा ऋत्विजो वदन्ति। हे सखायः सखिभुता ऋत्विजः समनसः समानमनस्काः परस्परमद्रोग्धारः। अन्योन्यं कर्मानुकूला इत्यर्थः। तादृशा यूयमुदुत्कृष्टं बुध्यध्वम्। जानीध्वम् । उत्तरत्र युश्माकं कर्तव्यमेवोपदिशति। तथाग्निं समिंध्वम्। सम्यग्दीपयध्वम्। ञि इन्धी दीप्तौ रौधादिकः। लोटि श्नसोरल्लोप इत्यल्लोपः। बहवोऽनेके सनीळाः समाननिवाणा एकस्यामेव शालायां निवसन्तः। अहं च दधिक्रामेतन्नामिकां देवतामग्निमुशसं च देवीमेतांस्त्रीन्देवानिन्द्रावत इन्द्रेण युक्तान्वो युष्मानवसेऽस्माकं रक्शणाय नि नितरां ह्वये। आह्वयामि॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८