मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०१, ऋक् २

संहिता

म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् ।
इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्राञ्चं॑ य॒ज्ञं प्र ण॑यता सखायः ॥

पदपाठः

म॒न्द्रा । कृ॒णु॒ध्व॒म् । धियः॑ । आ । त॒नु॒ध्व॒म् । नाव॑म् । अ॒रि॒त्र॒ऽपर॑णीम् । कृ॒णु॒ध्व॒म् ।
इष्कृ॑णुध्वम् । आयु॑धा । अर॑म् । कृ॒णु॒ध्व॒म् । प्राञ्च॑म् । य॒ज्ञम् । प्र । न॒य॒त॒ । स॒खा॒यः॒ ॥

सायणभाष्यम्

मन्द्रा मन्द्राणि मदकराणि स्तोत्राणि कृणुध्वम्। कुरुध्वं हे सखायः। क्रुवि हिंसाकरणयोः। धिन्विक्रुण्व्योरच्चॆत्युप्रत्ययः। अकारश्चान्तादेशः। यद्वा। करोतेर्व्यत्ययेन श्नुः। तथा धियः कर्माणि चयनप्रदेशकर्षणादीन्यातनुध्वम्। विस्तारयत। तथरित्रपरणीं कर्षणादिरूपेणारित्रेण पारयितव्याम् नावं चयनाख्यां क्रुणुध्वम्। कुरुध्वम्। तथायुधायुधानि सीरयुगादीन्यरमलं कृणुध्वम्। हे सखाय ऋत्विजः प्राञ्चं प्रागञ्चनं यज्ञं यश्तव्यमग्निं प्रणयत। प्रकर्षेण नयत। आदौ कर्षणं प्राञ्चं कुरुतेत्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८