यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् ।
गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्य॑ः प॒क्वमेया॑त् ॥
यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् ।
गि॒रा । च॒ । श्रु॒ष्टिः । सऽभ॑राः । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्यः॑ । प॒क्वम् । आ । इ॒या॒त् ॥
हे सखायः यूयं सीरा सीराणि युनक्त। युंग्ध्वमनडुद्भिः सह। युजेर्लोटि तप्तनप्तनथनाश्चेति तबादेशः। आत एवाङित्त्वाच्छ्नसोरल्लोप इत्यल्लोपाभावः। तदर्थं युगा युगानि वि तनुध्वम्। विस्तारयध्वम्। कृते च योनाविह सीतायां बीजं ग्राम्यमारण्यं च वपत निधत्त। तिलमाषव्रीह्यादिकं ग्राम्यसप्तकं वेणुश्यामाकनीवारकादिकमारण्यबीजसप्तकं च। कृष्टाकृष्टयोर्निवपतेत्यर्थः। सप्त ग्राम्याः कृष्टे सप्तारण्य अकृष्ट इत्यापस्तम्बः। तथा नोऽस्माकम् गिरा स्तुत्या प्रशस्त्या सहास्माकं श्रुष्टिरन्नं सभराः सभरमसत्। भवति। भवतु। तथा नेदीय इदन्तिकमेव सृण्यः। स्रुणिरंकुशः। अङ्कुशवद्वक्रो लवित्रः। पक्वं स्तम्बमेयात्। आभिमुख्येन गच्छतु। श्रुष्टिः सभरा असत् सृण्यः पक्वमेयादिति चशब्दानुव्रुत्तेश्चवायोगे प्रथमेति प्रथमस्य निघाताभावः॥३॥