मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०१, ऋक् ४

संहिता

सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् ।
धीरा॑ दे॒वेषु॑ सुम्न॒या ॥

पदपाठः

सीरा॑ । यु॒ञ्ज॒न्ति॒ । क॒वयः॑ । यु॒गा । वि । त॒न्व॒ते॒ । पृथ॑क् ।
धीराः॑ । दे॒वेषु॑ । सु॒म्न॒ऽया ॥

सायणभाष्यम्

कवयो मेधाविन ऋत्विजः सीरा सीराणि कर्षणसाधनानि युञ्जन्ति। योजयन्ति। युगा युगान्यपि पृथक् परस्परं वि तन्वते। भिन्नप्रदेशानि कुर्वन्ति। कीदृशाः कवयः। देवेषु विषये धीरा धीमन्तः। किमर्थं सुम्नया। सुम्नमिति सुखनाम। सुखेच्छया। सुम्नशब्दात्क्यजन्ताद्भावे अ प्रत्ययादित्यकारप्रत्ययः। सुपां सुलुगिति तृतीयाया आकारः। अथवा धीरा धीमन्तो देवेषु सुम्नया सुम्नेन। देवेषु सुखं भूयादिति। सुपां सुलुगिति विभक्तेर्याजादेशः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८