मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०१, ऋक् ५

संहिता

निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन ।
सि॒ञ्चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितम् ॥

पदपाठः

निः । आ॒ऽहा॒वान् । कृ॒णो॒त॒न॒ । सम् । व॒र॒त्राः । द॒धा॒त॒न॒ ।
सि॒ञ्चाम॑है । अ॒व॒तम् । उ॒द्रिण॑म् । व॒यम् । सु॒ऽसेक॑म् । अनु॑पऽक्षितम् ॥

सायणभाष्यम्

हे सखायः आहावान्। आहूयन्ते पानार्थम् गावोऽत्रेत्याहावा निपाणानि। अत्रोचित्यादग्निचयनप्रदेशकर्षणार्थगोपानसाधनद्रुममयपनपात्राण्युच्यन्ते तानाहावान् निष्कृणोतन। निश्कुरुत। आहूयतेर्निपानमाहावः। पा. ३-३-७४। इति नोपातितः। थाथादिस्वरः। कृणोतन। तप्तनभित्यादिना तनप्। तेनाङित्त्वाद्गुणः श्नाभ्यस्तयोरात इत्याकारलोपः। किमर्थमाहावकरनं वरत्रस्थापनं चेति। अत्रोच्यते। वयमवतमवटं सिञ्चामहै। कीदृशमवटम्। उद्रिणमुद्द्राववन्तं सुषेकं सुष्ठु सेक्तुं शक्यं अनुपक्षितमनुपक्षीणं कदाचिदुदकोपक्शयरहितम्॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८