मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०१, ऋक् ६

संहिता

इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् ।
उ॒द्रिणं॑ सिञ्चे॒ अक्षि॑तम् ॥

पदपाठः

इष्कृ॑तऽआहावम् । अ॒व॒तम् । सु॒ऽव॒र॒त्रम् । सु॒ऽसे॒च॒नम् ।
उ॒द्रिण॑म् । सि॒ञ्चे॒ । अक्षि॑तम् ॥

सायणभाष्यम्

इष्कृताहावं संस्कृताहावमवतमवटम् द्रॊणं सिञ्चे। सेचयामि। पुनः कीदृशमवटम्। सुवरत्रं शोभनवरत्रोपेतं सुशेचनं शोभनोदकसेकोपेतं उद्रिणमुद्द्राववन्तं अक्षितमक्षीणम्।।६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८