मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०१, ऋक् १०

संहिता

आ तू षि॑ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः ।
परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥

पदपाठः

आ । तु । सि॒ञ्च॒ । हरि॑म् । ई॒म् । द्रोः । उ॒पऽस्थे॑ । वाशी॑भिः । त॒क्ष॒त॒ । अ॒श्म॒न्ऽमयी॑भिः ।
परि॑ । स्व॒ज॒ध्व॒म् । दश॑ । क॒क्ष्या॑भिः । उ॒भे इति॑ । धुरौ॑ । प्रति॑ । वह्नि॑म् । यु॒न॒क्त॒ ॥

सायणभाष्यम्

हे अध्वर्यो त्वमेनम् हरिं हरितवर्णम् सोमं द्रोर्द्रुमविकारस्य पात्रस्योपस्थ उपर्या सिञ्च। आसेकं कुरु। त्विति पूरहः । तदर्थं हे पात्रसम्पादिनः अश्मन्मयीभिरयः शिलासारभूताभिर्वाशीभिस्तक्षत पात्राणि। नकारोपजनश्छान्दसः। मयटः टित्त्वाद् ङेप्। तानि पात्राणि सोमपूर्णानि दश दशसंख्याकानि कक्ष्याभिः प्रकारैः पर्यायेण परि ष्वजध्वम्। संस्कुरुध्वम्। आसादयत। यद्वा। वाशीभिरश्म। न्मयीभिर्हविर्धानशकटे तक्षत। ते च दश कक्ष्याभिर्दशसङ्ख्याकाभी रज्जुभिः परि ष्वजध्वम् उभे धुरौ युगसम्बन्धिन्यौ प्रति वह्नी वाहकावनवाहौ युनक्त। अथवायं मन्त्रश्चयनक्षेत्रकर्षनसाधनहलाविषयतया व्याख्येयः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९