मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०१, ऋक् १२

संहिता

कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये ।
नि॒ष्टि॒ग्र्य॑ः पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥

पदपाठः

कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये ।
नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥

सायणभाष्यम्

षष्ठेऽहनि ब्राह्मनाच्छन्ंसिशस्त्रे कपृन्नर इत्येषा। कृपन्नरो यद्ध प्राचीरजगन्तेति चैते। आ. ८-३। इति॥

हे नरो नेतार ऋत्विजः एष इन्द्रः कपृत्। सुखस्य पूरको यष्टॄणां स्तोतॄनां च। कमिति सखनाम। तं कपृथं सुखस्य पूरयितारमिन्द्रं चोदयत। प्रेरयत। खुदत। खुर्दत। क्रीअयत। खुर्द क्रीडायां भौवादिकः। व्यत्ययेनशः। रेफलोपश्छान्दसः। सम्पिंष्ट। संस्कुरुतेत्यर्थः। किमर्थम् । वाजसातयेऽन्नस्य लाभा तदेवाह। हे होतः निष्ट्र्ग्र्यः पुत्रम् । निश्टिं दितिं स्वसपत्नीं गिरतीति निष्टिग्रीरदितिः। तस्याः पुत्रमिन्द्रं सबाधः। सह पापैः प्रयासरूपैः कर्मभिर्बाध्यन्त इति सबाध ऋत्विजः। तथाविधा यूयं सोमपीतये तस्य सोमपानयोतयेऽस्माकं रक्षणाय वा च्यवय। व्यत्ययेनैकवचनम्। आच्यवयतेत्यर्थः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९