क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी ।
दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानी॑म् ॥
क॒कर्द॑वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी ।
दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥
ककर्दवे हिंसनाय शत्रूणां वृषभो वर्षिता गौर्युक्त आसीत्। रथे सम्बद्धोऽभूत्। केशी केशवान् प्रग्रहवानस्य राज्ञो रथस्य वा सारथिः। मुद्गलानीत्यर्थः। सारथ्यभिप्रायेण केशीति पुल्लिङ्गता। अवावचीत्। वृषभभयजनकं शत्रुभयजनकं वाक्रोशमकरोत्। अथवा। केशी केशिनी सारथिरस्य। अमुमित्यर्थः। अमुं वृशभं शब्दमकारयत्। वच परिभाषण इत्यस्य केवलस्यान्तर्णीतण्यर्थस्य यङ् लुगन्तस्य लुङि रूपम् । अथवा। अस्य सारथिः सहायभूतः केशी प्रकृष्टकेशो वृषभोऽवावचित्। भृशमशब्दयत्। एवंभूतस्य दुधेर्दुर्धरस्यानसा सह द्रवतः शीघ्रं शत्रुमध्ये रथेन सह धावतो वृषभस्य भयङ्ग्करशब्देन निष्पदो निर्गच्छन्तो योद्धारो मुद्गलानीं मुद्गलस्य योषितं सारथिभुतां प्रत्युच्छन्ति ष्म। आगच्छन्नित्यर्थः। पाघ्रेत्यादिनर्च्छादेशः॥६॥