मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०२, ऋक् ७

संहिता

उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् ।
इन्द्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥

पदपाठः

उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् ।
इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥

सायणभाष्यम्

उतापि च विद्वान् स मुद्गलोऽस्य रथस्य प्रधिम्। प्रधिरक्षच्छिद्रकाष्ठः स च रथावयवानामुपलक्शकः। रथावयवमुदहन्। उदगमयत्। रथं सन्ननाहेत्यर्थः। तदनन्तरमत्र रथे वंसगं वननीयगमनं वृषभं शिक्षञ्शिक्षयन्रज्जुषु स्थापयन्नुपायुनक्। रथसमीपे युगेऽयोजयत्। युजेर्लङि तिपो हल्ङ्यादिलोपः। एवं सतीन्द्रो देवोऽघ्न्यानामहन्तव्यानां गवां पतिमुदावत्। उत्कृष्टमावत्। रक्षामकरोत्। पश्चात्ककुद्मान्वृषभः पद्याभिः सरणिभिररंहत। वेगेनागमत्। रहिर्गत्यर्थः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१