मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०२, ऋक् ९

संहिता

इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नम् ।
येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥

पदपाठः

इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्रु॒ऽघ॒नम् । शया॑नम् ।
येन॑ । जि॒गाय॑ । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥

सायणभाष्यम्

कञ्चन सखायं सेनादिसहायाभावेन जयविषय उपहासं कुर्वानं प्रति ब्रविति। राजा द्रुघणेन वृषभेण चाजिं जिगायेत्युक्तवान्। पूर्वं वृशभो वर्णितः। अत्र द्रुघणो वर्ण्यते। हे सखे तमिमं द्रुघणं पश्य। कीदृशमिममिति उच्यते। युजेरसमासे। पा. ७-१-७१। इति नुम्। युजम्। युज्यत इति युक् सखा। वृषभस्य सखिभूतम्। वृशभो यावन्तमर्थं साधयति तावन्तमेव साधयन्तमित्यर्थः। पुनः कीदृशम् । काष्ठाया मध्ये । आज्यन्तोऽपि काष्ठोच्यत इति निरुक्तम्। २-१५। आज्यन्तस्य मध्ये। सङ्ग्राम इत्यर्थः। तत्र शयानं हन्तव्यान्सर्वाह्नत्वा सुखेन स्वपन्तं निर्व्यापारत्वेन वर्तमानम्। ईदृशं द्रुममयं घनं पश्येत्यर्थः। येन द्रुघणेन शतवच्छतोपेतं गवां सहस्रं पृतनाज्येषु सङ्ग्रामेषु जिगाय अहमजैषं तमिमं पश्येति समन्वयः। जयतेर्लुट्। सन्लिटो र्जेरित्यभ्यासादुत्तरस्य कुत्वम्। मिपो णल्॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१