आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था॑पयन्ति ।
नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥
आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊं॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ ।
न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥
या आरे समीप एवाघाघानि दुःखानि शत्रुरूपाणि करोति तं को नरो न्विदानीमित्थेत्थम् ददर्श। पश्यति। किञ्च यं द्रुघनं युञ्जन्ति रथे तमु तमेवास्थापयन्ति। आरोहयन्तीत्यर्थः। अथवा यं रथे युञ्जयन्ति तमेव प्रहरणार्थमास्थापयन्ति। उभयविधं कार्यमेकः करोतीत्यर्थः। किञ्चास्मै तृणं ना भरन्ति। नाहरन्ति। तथोदकं नाहरन्ति। हृग्रहोर्भ इति भत्वम्। ईदृशो द्रुघण उत्तरो दक्षिणस्य वृशभस्य स्वयमुत्तर सन् धुरो रथभारस्य रथधुरं वहति प्रदेदिशत् प्रकर्षेण जयं स्वामिने प्रदिशन् शत्रूणां वा भयं प्रदिशन् वहति। दिश अतिसर्जन इत्यस्माद्यङ् लुगन्ताच्छतरि रूपम्॥१०॥