मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०२, ऋक् ११

संहिता

प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सि॒ञ्चन् ।
ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ॥

पदपाठः

प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् ।
ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥

सायणभाष्यम्

अत्र मुद्गलानी सारथिः स्तूयते। एषा मुद्गलानी परिवृक्तेव। वृजी वर्जने। परित्यक्ता पत्या पत्या वियुक्ता योशिदिव। सा यथा पतिविद्यम्। विद्यो वेद्यो लम्भनीयः। पैत्श्चासौ विद्यश्च। पतिविद्यमानशे तद्वत्पतिविद्यमानट्। आनड् व्याप्तिकर्मा। नशेर्लुङि मन्त्रे घसेति च्लेर्लुक्। छन्दस्यपि दृश्यते। पा. ६-४-७३। इत्यनजादीनामप्यडागमः। अश्नोतेर्लिटि वा णल्लोपश्छान्दसः। तथा पतिसमीपं सारथित्वेनागत्य पीप्याना वर्धमाना भवति। किमिव। कूचक्रेणेव सिञ्चन्। कुः पृथिवी। तस्याश्चक्रो वलयः कूचक्रः। तेन वर्षणीयत्वेन निमित्तेन सिञ्चञ्जलं वर्ष्मन्मेघ इव। स यथान्तरिक्षे स्वल्पमात्रोऽपि वर्षनसमये महान्भवति तद्वदियमपि शत्रुमध्ये शरधारा वर्षन्ती वर्धत इत्यर्थः। तथैषैष्या। एशितव्यो गोसङ्घ एषः। तमिच्छतीत्येषैषी। ईदृश्या तया रथ्या सारथिभूतया जयेम शत्रुभिरपहृतं गोसङ्घम् । तस्याः सातं दत्तं सम्भजनं वा सुमङ्गलं शोभनमङ्गलवत सिनवत्। सिनमन्नम्। तद्वच्चास्तु। गोरूपान्नवच्च भवतु॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१