मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०२, ऋक् १२

संहिता

त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः ।
वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥

पदपाठः

त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः ।
वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥

सायणभाष्यम्

सूक्तस्य विकल्पेनैन्द्रत्वादाविन्द्रस्य स्तुतत्वादन्तेऽपीन्द्रः स्तूयते। हे इन्द्र त्वं विश्वस्य सर्वस्य जगतश्चक्षुशश्चक्षुष्मतः पश्यतो वा जगतश्चक्षुरसि। प्रत्येकमुत्पत्तिविशिष्टचक्षुः सद्भावेऽपि सर्वस्य साधारणं चक्षुरसि। त्वया द्रष्टव्यानैहिकामुष्मिकपदार्थान्पश्यन्तीत्यर्थः। त्वामेव हि यज्ञादिना लब्ध्वा पुरुषार्थान्साधयन्ति। यद्वा। विश्वस्य जगतो यन्निजं चक्शुरस्ति तस्यापि चक्षुषस्त्वं चक्शुरसि। यद्यस्माद्वृय्षाभिमतवर्षकस्त्वमाजिं मुद्गलस्य मम सङ्ग्रामं वध्रिणा पाशेन युजा युजौ युक्तौ वृषणा वृषणौ वर्षकावश्वौ रथे योजयित्वा चोदयञ्शत्रुषु प्रेरयन् सिषाससि आजिं स्तम्भक्तुमिच्छसि तस्माच्चक्षुरसि॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१