मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् ३

संहिता

स इषु॑हस्तै॒ः स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥

पदपाठः

सः । इषु॑ऽहस्तैः । सः । नि॒ष॒ङ्गिऽभिः॑ । व॒शी । सम्ऽस्र॑ष्टा । सः । युधः॑ । इन्द्रः॑ । ग॒णेन॑ ।
सं॒सृ॒ष्ट॒ऽजित् । सो॒म॒ऽपाः । बा॒हु॒ऽश॒र्धी । उ॒ग्रऽध॑न्वा । प्रति॑ऽहिताभिः । अस्ता॑ ॥

सायणभाष्यम्

पूर्वमन्त्र इन्द्रेण यजतेत्युक्तं आत्रेन्द्रस्य जयसाधनसमर्थत्वम् दर्शयति। स इन्द्र इषुहस्तैर्भटैर्मरुदादिभिर्वशी वश्यैस्तद्वान्। तथा निषङ्गिभिर्युक्तः। निषङ्गः खड्गः। तद्वद्भिर्वशी। स चेन्द्रो युधो युध्यमानः सन्। इगुपधलक्षनः कः। अथवा युधो युद्धहेतोर्गणेन शत्रुसङ्घेन सह संस्रष्टैकीभवनशीलः। यत एवं विधोऽतः संसृष्टजित्। ये परस्परैकमत्येन युद्धाय संसृष्टा भवन्ति तेषां जेता। तथा सोमपाः सोमस्य पाता। बाहुशर्धी। भर्धो बलम् । बाह्वोर्बलं बाहुबलम्। तद्वान्। मत्वर्थीय इनिः। यद्वा। शृधु प्रसहने। बाहुभ्यां शर्धयत्यभिभवतीति बाहुशर्धी। सुप्यजातौ णिनिस्ताच्छील्ये। पा. ३-२-७८। इति णिनिः। उग्रधन्वोद्यतधन्वा प्रतिहिताभिः शत्रुषु प्रेरिताभिरिषुभिरस्ता मारयिता। यत्रेषून्मुञ्चति तत्र वृथा न भवतीत्यर्थः। ईदृशेनेन्द्रेण जयतेति सम्बन्धः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२