मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् ४

संहिता

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः ।
प्र॒भ॒ञ्जन्त्सेना॑ः प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥

पदपाठः

बृह॑स्पते । परि॑ । दी॒य॒ । रथे॑न । र॒क्षः॒ऽहा । अ॒मित्रा॑न् । अ॒प॒ऽबाध॑मानः ।
प्र॒ऽभ॒ञ्जन् । सेनाः॑ । प्र॒ऽमृ॒णः । यु॒धा । जय॑न् । अ॒स्माक॑म् । ए॒धि॒ । अ॒वि॒ता । रथा॑नाम् ॥

सायणभाष्यम्

हे बृहस्पते बृहताम् पातः पालयितर्देव रथेन परि दीय। परिगच्छ। दीयतिर्गच्छतिकर्मा। आगत्य च रक्षोहा रक्षसां हन्तामित्राञ्शत्रूनपबाधमानः सर्वतो नाशयन् तथा सेनाः शत्रुसम्बन्धिनीः प्रभञ्जन् प्रकर्षेण नाशयन् प्रमृणः प्रकर्षेण हिंसन्। म्रुण हिंसायाम्। इगुफधलक्षणः कः। केन हिंसन्। युधा युद्धेन। सावेकाच इति विभक्तेरुदात्तत्वम्। जयन्नेवं सर्वत्र जयं प्रतिपद्यमानः ईदृशस्त्वमुस्माकम् रथानामवितैधि। भव॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२