गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् ॥
गो॒त्र॒ऽभिद॑म् । गो॒ऽविद॑म् । वज्र॑ऽबाहुम् । जय॑न्तम् । अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा ।
इ॒मम् । स॒ऽजा॒ताः॒ । अनु॑ । वी॒र॒य॒ध्व॒म् । इन्द्र॑म् । स॒खा॒यः॒ । अनु॑ । सम् । र॒भ॒ध्व॒म् ॥
गोत्रभिदम्। गा उदकानि त्रायन्त इति गोत्रा मेघाः। यद्वा। गौर्भूमिः। तां त्रायन्त इति गोत्राः पर्वताः। तेषां भेत्तारं गोविदमुदकस्य लब्धारं वज्रबाहुं वज्रहस्तम् । प्रहरणार्थेभ्यः। पा. २-२-३६-४। इति परनिपातः। जयन्तं शत्रूनभिभवन्तं जयनशीलमज्म गमनशीलं शत्रुबलमोजसा बलेन जयन्तं यद्वाज्माजिं जयन्तमोजसा बलेन प्रम्रुणन्तं शत्रूनभिभवन्तं ईदृशं महानुभावमिममिन्द्रं हे सजाताः सहोत्पन्ना योद्धारः यूयमनु विरयध्वम्। एनमग्रतः कृत्वानु पश्चाद्वीरयध्वम्। वीरकर्म युद्धं कुरुध्वम्। शूर वीर विक्रान्तौ। वीरशब्दात्तत्करोति तदाचष्ट इति णिच्। हे सखायः परस्परं सखिभूताः यूयमिममिन्द्रं संरभमाणमनु सं रभध्वम्॥६॥