मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् ८

संहिता

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥

पदपाठः

इन्द्रः॑ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः॑ । दक्षि॑णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः॑ ।
दे॒व॒ऽसे॒नाना॑म् । अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम् । जय॑न्तीनाम् । म॒रुतः॑ । य॒न्तु॒ । अग्र॑म् ॥

सायणभाष्यम्

आसामस्मत्सहायार्थमागतानामयमिन्द्रो नेता नायकोऽस्तु। तथा तस्य बृहस्पतिः पुर एतु। एवं दक्षिणा यज्ञः सोमश्च पुर एत्विति प्रत्येकं सम्बन्धः। तथा देवसेनानामभिभञ्जतीनामस्मदमित्रानाभिमुख्येन मर्दयन्तीनां जयन्तीनाम्। छन्दसीति नाम उदात्तत्वं जयन्तीनामित्यत्र बहुलवचनान्न भवति। पा. ६-१-१७८। तासामग्रं मरुतो यन्तु। गच्छन्तु॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३