मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् १०

संहिता

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि ।
उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषा॑ः ॥

पदपाठः

उत् । ह॒र्ष॒य॒ । म॒घ॒ऽव॒न् । आयु॑धानि । उत् । सत्व॑नाम् । मा॒म॒काना॑म् । मनां॑सि ।
उत् । वृ॒त्र॒ऽह॒न् । वा॒जिना॑म् । वाजि॑नानि । उत् । रथा॑नाम् । जय॑ताम् । य॒न्तु॒ । घोषाः॑ ॥

सायणभाष्यम्

हे मघवन्निन्द्र अस्मदीयान्ययुधान्युद्धर्षय। उत्कृष्टम् हर्षय। प्रहरणेषुद्युक्तानि भवन्त्वित्यर्थः। मामकानामस्मदीयानां सत्वनां प्राणिनां सेवकानां मनांसि चोद्धर्षय। हे वृत्रहन्निन्द्र वाजिनामश्वानां वाजिनानि वेगा उद्यन्तु। तथा जयतां रथानां घोषा उद्यन्तु॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३