मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् १३

संहिता

प्रेता॒ जय॑ता नर॒ इन्द्रो॑ व॒ः शर्म॑ यच्छतु ।
उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥

पदपाठः

प्र । इ॒त॒ । जय॑त । न॒रः॒ । इन्द्रः॑ । वः॒ । शर्म॑ । य॒च्छ॒तु॒ ।
उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः॑ । अ॒ना॒धृ॒ष्याः । यथा॑ । अस॑थ ॥

सायणभाष्यम्

हे नरो नेतारः सङ्ग्रामस्य निर्वोढारो योद्धारः प्रेत। प्रकर्षेन गच्छत। गत्वा च जयत तान्प्रतिभटान्। तिङः परत्वात्तिङ्गतिङ इति निघाताभावः। वो युष्माकमिन्द्रः शर्म सुखं यच्छतु। प्रयच्छतु। वो बाहव उग्रा उद्गूर्ण बलाः सन्तु। भवन्तु। अनाधृष्या अन्यैरनभिभाव्या यथा यूयमसथ भविष्यथ तथोग्राः सन्तु वो बाहवः॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३