मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् १

संहिता

असा॑वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय॑म् ।
तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इ॑न्द्र॒ पिबा॑ सु॒तस्य॑ ॥

पदपाठः

असा॑वि । सोमः॑ । पु॒रु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । या॒हि॒ । तूय॑म् ।
तुभ्य॑म् । गिरः॑ । विप्र॑ऽवीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब॑ । सु॒तस्य॑ ॥

सायणभाष्यम्

असावीत्येकादशर्चं पञ्चमं सूक्तम्। वैश्वामित्रस्याष्टकस्यार्षं त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। असाव्येकादशाष्टको वैश्वामित्र इति। गतः सुक्त विनियोगः॥

हे पुरुहूत बहुभिः स्तोतृभिराहुत तुभ्यं त्वदर्थं सोमोऽसावि। अभिषुतोऽभूत्। षुञ् अभिषव इत्यस्मात्कर्मणि लुङ्। अतो हरिभ्यां हरितवर्णाभ्यामश्वाभ्यां यज्ञमस्मदीयं तूयं तूर्णमुप याहि। उपागच्छ। तुभ्यं त्वदर्थं गिरोऽस्मदीयाः स्तुतयो विप्रविराः। विप्रा मेधाविनो वीरा विशेषेण प्रेरयितारः प्रोद्गमयितारो यासां तास्तथोक्ताः। इयाना गमनशीला दधन्विरे। गम्यन्ते। अस्माभिर्युष्मत्प्रीणनाय प्राप्यन्त इत्यर्थः। ईङ् गतौ। ताच्छीलिकः शानच्। छान्दसो विकरणस्य लुक्। धविर्गत्यर्थः। इदित्त्वान्नुम्। कर्मणि च्छान्दसो लिट्। यत एवमतः सुतस्याभिषुतस्यांशं सुतं सोमं वा पिब॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४