मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् ३

संहिता

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म् ।
इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भि॒ः शच्या॑ गृणा॒नः ॥

पदपाठः

प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् ।
इन्द्र॑ । धेना॑भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः । विश्वा॑भिः । शच्या॑ । गृ॒णा॒नः ॥

सायणभाष्यम्

द्वितीये पर्याये ब्राह्मणाच्छंसिनः प्रोग्रामित्येषा याज्या। सूत्रितं च। अश्वावति पथमः प्रग्राम् पीतिं वृष्ण इयर्मि सत्यामिति याज्या। आ. ६-४। इति॥

हे हर्यश्वेन्द्र वृष्णे वर्षकाय तुभ्यमुग्रामुद्गुर्णं सत्यां पीतिं सोमपानम् प्रेयर्मि। प्रेरयामि। किमर्थम्। प्रयै प्रगमनाय। कस्य पितिम् । सुतस्याभिषुतस्य। अतो हे इन्द्र शच्या शक्त्या कर्मना वा युक्तो गृणानः स्तूयमानस्त्वं विश्वाभिः सर्वाभिर्धेनाभिः स्तुतिवाग्भिर्विश्वाभिर्धीभिः सर्वैः कर्मभिश्चेहास्मिन्यागे मादयस्व। तृप्यत। मद तृप्तियोगे। आत्मनेपदम्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४