मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् ४

संहिता

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः ।
प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्त॑ः सध॒माद्या॑सः ॥

पदपाठः

ऊ॒ती । श॒ची॒ऽवः॒ । तव॑ । वी॒र्ये॑ण । वयः॑ । दधा॑नाः । उ॒शिजः॑ । ऋ॒त॒ऽज्ञाः ।
प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑षः । दु॒रो॒णे । त॒स्थुः । गृ॒णन्तः॑ । स॒ध॒ऽमाद्या॑सः ॥

सायणभाष्यम्

तितीये पर्याये ब्राह्मणाच्छंसिनः शस्त्र ऊती शचीव इत्येषा याज्या ऊती शचीवस्तव वीर्येणेति याज्या। आ. ६-४। इति सुत्रितम्॥

हे शचीवः शक्तिवन्निन्द्र तवोत्यूत्या रक्षणेन तव वीर्येण वयोऽन्नं प्रजावत्प्रजोपेतं दधाना धारयन्त उशिजस्त्वामेव कामयमाना ऋतज्ञा ऋतम् यज्ञमहर्जानन्तः। अङ्गिरसः सत्रमनुतिष्ठन्तः षष्थेऽहनि प्रयोगमूढाः सन्तो नाभानेदिष्ठेन पारं गत यशः अतस्तेषामृतज्ञत्वम् । ईदृशोऽङ्गिरसो मनुषो मनुष्यस्य यजमानस्य दुरोणे यज्ञगृहे ग्रुणन्तस्त्वाम् स्तुवन्तः सधमाद्यासः सह माद्यन्तस्तस्थुः। तिष्थन्ति। मादयतेः क्रुत्यल्युटो बहुलमिति वचनात्कर्तर्यचो यदिति यत्। छान्दसः सदादेशः। अतो वयमपि तिष्ठेमेत्यर्थः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४