मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् ५

संहिता

प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः ।
मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑नाः स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता॑भिः ॥

पदपाठः

प्रनी॑तिऽभिः । ते॒ । ह॒रि॒ऽअ॒श्व॒ । सु॒ऽस्तोः । सु॒सु॒म्नस्य॑ । पु॒रु॒ऽरुचः॑ । जना॑सः ।
मंहि॑ष्ठाम् । ऊ॒तिम् । वि॒ऽतिरे॑ । दधा॑नाः । स्तो॒तारः॑ । इ॒न्द्र॒ । तव॑ । सू॒नृता॑भिः ॥

सायणभाष्यम्

हे हर्यश्व हरितवर्णाश्वोपेतेन्द्र सुष्टोः सुष्ठु स्तूयमानस्य सुशुम्नस्य सुसुखस्य सुधनस्य वा पुरुरुचो बहुदीप्तेस्ते तव प्रणीतिभिः प्रणयनैर्हनादि प्रदानैर्जनासो जनाः स्तोतारः सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः। एतत्प्रणीतिभिरित्यनेन समुच्चीयते। वितिरेऽन्येभ्योऽर्थिभ्यो वितरणाय मंहिष्ठामतिशयेन मंहनीयां तव सम्बन्धिनीमूतिं रक्शां दधाना आसत इति शेषः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४