मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् ६

संहिता

उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ ।
इन्द्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥

पदपाठः

उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । सोम॑स्य । या॒हि॒ । पी॒तये॑ । सु॒तस्य॑ ।
इन्द्र॑ । त्वा॒ । य॒ज्ञः । क्षम॑माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः ॥

सायणभाष्यम्

हे हरिवो हरिवन्निन्द्र सुतस्याभिषुतस्य सोमस्य पितये पानाय ब्रह्मानि परिवृढान्यस्मदीयानि कर्मानि स्तोत्राणि वोप याहि। उपागच्छ। केन साधनेनेति तदुच्यते। हरिभ्यामश्वाभ्याम् । ताभ्यां युक्तेन रथेनेत्यर्थः। यद्वा। हरिभ्यां हरिव इति सम्बन्धनीयम् । हे इन्द्र क्षममाणं त्वा त्वां यज्ञः सोमयाग आनट्। व्याप्नोति। नशतेर्लुङि मन्ते घसेति च्लेर्लुक्। छन्दस्यपि द्रुश्यत इत्याडागमः। अश्नोतेरेव वा लिटि च्छान्दसस्तत्प्रत्ययस्य लोपः। अश्नोतेश्चेति नुडागमः। अध्वरस्य यागस्य प्रकेतः प्रकर्षेण जानंस्त्वं दाश्वानसि। दातासि कर्मफलस्य॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५