मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् १०

संहिता

वी॒रेण्य॒ः क्रतु॒रिन्द्र॑ः सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे ।
आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥

पदपाठः

वी॒रेण्यः॑ । क्रतुः॑ । इन्द्रः॑ । सु॒ऽश॒स्तिः । उ॒त । अपि॑ । धेना॑ । पु॒रु॒ऽहू॒तम् । ई॒ट्टे॒ ।
आर्द॑यत् । वृ॒त्रम् । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । स॒स॒हे । श॒क्रः । पृत॑नाः । अ॒भि॒ष्टिः ॥

सायणभाष्यम्

इन्द्रो वीरेण्यो वीरैर्गन्तव्योऽतिशयेन वीरो वा क्रतुः कर्मवान् सुशस्तिः शोभनस्तुतिकः। उतापि च। अपीत्यनर्थकः। अपि च धेना। वाग्नामैतत्। प्रीणयित्री स्तुतिवाक् पुरुहुतमिन्द्रमीट्टे। स्तौति पूजयति वा। यत उक्तलक्षणः अतः स्तौतीत्यर्थः। किञ्चायं वृत्रमावरकमेतन्नामकमसुरमार्दयत्। हतवानित्यर्थः। उ अपि च लोकम्। लोक्यत इति लोकः प्रकाशः। तमकृणॊत्। अकरोत्। आवरकमसुरं हत्वा प्रकाशं कृतवानित्यर्थः। न केवलं तमेकमेव अपि शु शक्र इन्द्रोऽभिष्टिः शत्रूणामभिगन्ता पृतनाः शत्रुसेनाः ससाहे। अभ्यभवत्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५