मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् ११

संहिता

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥

पदपाठः

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

सायणभाष्यम्

हे इन्द्र वाजसातौ। वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः। अस्मिन्भरे। बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः। तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम। सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम। कुशिका वयं यज्ञार्थमाह्वयेम। तथा शृण्वन्तमस्माभिः क्रियमानाम् स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्शांसि घ्नन्तम् हिंसन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं सम्यग्जेतारम् त्वामूतये रक्षणाय वयमाह्वयेम। शुनम्। टुओष्वि गतिव्रुद्ध्योरित्यस्य निष्ठायाम् यस्य विभाषेतिट् प्रतिषेधः। यजादित्वात्सम्प्रसारणम्। दीर्घाभावश्छान्दसः प्रत्ययस्वरः। हुवेम। ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लङ् रूपम्। निघातः। भरे। भृञ् भरणे। घः। व्रुषादित्वादाद्युदात्त्तः। वाजसातौ। षणु दाने। भावे क्तिन्। जनसनेत्यादिनानुनासिकस्यात्वम्। बहुव्रीहौ पूर्वपदस्वरः। समत्सु। अद भक्षने। सम्पुर्वात् क्विप्। सम्भक्शयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः क्रुदुत्तरपदस्वरः। घ्नन्तम्। हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः। हो हन्तेरिति घत्वं सञ्जितम्। जि जये। क्विप्॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५