मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०५, ऋक् १०

संहिता

श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः ।
यया॒ स्वे पात्रे॑ सि॒ञ्चस॒ उत् ॥

पदपाठः

श्रि॒ये । ते॒ । पृश्निः॑ । उ॒प॒ऽसेच॑नी । भू॒त् । श्रि॒ये । दर्विः॑ । अ॒रे॒पाः ।
यया॑ । स्वे । पात्रे॑ । सि॒ञ्चसे॑ । उत् ॥

सायणभाष्यम्

हे इन्द्र ते तव सम्बन्धिनः सोमस्य श्रिये श्रयणाय पृश्निर्गौः पृश्निवर्णो पसेचनी पयसो दोग्ध्री भुत्। भवतु। अथा दर्विररणिररेपा अपापा सती ते श्रिये हविशह् श्रयणाय भूत्। भवतु। यया दर्व्या स्वे स्वकीये पात्रे पानसाधने मुख उत्सिञ्चसे उपर्याक्रुष्य पिबसि सा श्रिये भूदिति सम्बन्धः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७