श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।
आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सम् ॥
श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति॑ । त्वा॒ । सु॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् ।
आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽपु॒त्रम् । प्र । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽव॒त्सम् ॥
हे असुर्य बलवन्निन्द्र। अवध्यत्वेनासुरसम्बन्धित्वात्। त्वा त्वां प्रति शतं वा शतसङ्ख्याकं धनम्। वाशब्देनापरिमितं धनं वा। यद्यदा कामितवानित्यर्थः। यद्यदा च दस्युहत्ये दस्युहनने शत्रुवधे कुत्सपुत्रं दुर्मित्रमावः रक्षितवानसि। तथा कुत्सवत्सं कुत्रपुत्रं प्रावः प्रकर्षेण रक्षितवानसि। अव रक्षनादौ। लङ्याडजादीनामित्याडागमः। पादादित्वादिनिघातः। पुनरुक्तिरादरार्थम्। तदानीं सुमित्रो नाम्नेत्थमस्तौत्। तथा दुर्मित्रो गुणत इत्थमस्तौत्। तद्विपरीतं वा द्रष्टव्यम्। सुमित्रो नाम्ना दुर्मित्रो गुणत इति कात्यायनेन तथोक्तेः। स इत्थेत्थमनेन क्रुतप्रकारेणास्तौत्। अस्तावित्। इत्थास्तौदिति द्विरुक्तिः स्तुतिसमाप्त्यर्थम्॥११॥
वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये
अष्टमाष्टके पञ्चमोऽध्यायः समाप्तः॥