मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०६, ऋक् ८

संहिता

घ॒र्मेव॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भगे॑विता तु॒र्फरी॒ फारि॒वार॑म् ।
प॒त॒रेव॑ चच॒रा च॒न्द्रनि॑र्णि॒ङ्मन॑ऋङ्गा मन॒न्या॒३॒॑ न जग्मी॑ ॥

पदपाठः

घ॒र्माऽइ॑व । मधु॑ । ज॒ठरे॑ । स॒नेरू॒ इति॑ । भगे॑ऽअविता । तु॒र्फरी॒ इति॑ । फारि॑वा । अर॑म् ।
प॒त॒राऽइ॑व । च॒च॒रा । च॒न्द्रऽनि॑र्निक् । मनः॑ऽऋङ्गा । म॒न॒न्या॑ । न । जग्मी॒ इति॑ ॥

सायणभाष्यम्

घर्मेव घर्माविव महावीराविव जठरे स्वोदरे मधु मधुनः। षष्ठ्या लुक्। घृतस्य सनेरू सम्भक्तारौ। वन षन सम्भक्तौ। अस्मादौणादिक एरुप्रत्ययः। भगेविता। भगो धनम् । तद्विषयरक्षणयुक्तौ। अवतेर्भावेक्तः। तत्पुरुषे कृति बहुलमिति बहुलवचनाद्बहुव्रीहावप्यलुक्। यद्वा। अवतेस्तृजन्तस्य सुपो डादेशः। स्वरस्तु च्छन्दसः। अरमलं तुर्फरी शत्रूणां हिंसितारौ अत एव फारिवा। फारिरायुधम्। तद्वन्तौ भवतः। स्फुरतिर्वधकर्मा। अस्माण्णिचि चिस्फुरोर्णौ। पा.६-१-५४। इत्यात्वम्। तदन्तादिप्रत्ययः। सकारलोपश्छान्दसः। छन्दसीवनिपाविति मत्वर्थीयो वनिप्। सुपो डादेशः। पतरेव पतराविव पतनशीलौ पक्षिणाविव चचरा सञ्चरन्तौ चन्द्रनिर्णिक्। निर्णिगिति रूपनाम। सुपो लुक्। चन्द्रनिर्णिजौ चन्द्र सदृशरूपयुक्तौ। यद्वा। चन्द्रमाह्लादिकं रूपं ययोस्तौ वर्तेते। मनऋङ्गा मनसा व्रसाधनं ययोस्तौ। ऋञ्जतिः प्रसाधनकर्मा। अस्माद्भावे घञ्। बहुव्रीहिस्वरः। मनन्या न मनन्यौ यथा। मनने साधू। स्तुत्यावित्यर्थः। मननशब्दात्तत्र साधुरिति यत्। तित्स्वरितम्। तादृशाविव जग्मी यज्ञं प्रत्यागमनशीलौ भवतः। गमेरादृगमहन इति किन्प्रत्ययः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः