मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०६, ऋक् १०

संहिता

आ॒र॒ङ्ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे ।
की॒नारे॑व॒ स्वेद॑मासिष्विदा॒ना क्षामे॑वो॒र्जा सू॑यव॒सात्स॑चेथे ॥

पदपाठः

आ॒र॒ङ्ग॒राऽइ॑व । मधु॑ । आ । ई॒र॒ये॒थे॒ इति॑ । सा॒र॒घाऽइ॑व । गवि॑ । नी॒चीन॑ऽबारे ।
की॒नारा॑ऽइव । स्वेद॑म् । आ॒ऽसि॒स्वि॒दा॒ना । क्षाम॑ऽइव । ऊ॒र्जा । सु॒य॒व॒स॒ऽअत् । स॒चे॒थे॒ इति॑ ॥

सायणभाष्यम्

अरङ्गरेव। गॄ शब्दे। अस्माद्भाव ऋदोरप्। अरमलं पर्याप्तं गरः शब्दनम्। तस्य सम्बन्धिनौ। तस्येदमित्यण्। शब्दवन्तौ मेघाविव यथा मधु जलं प्रेरयतः तद्वद्युवामेरयेथे। प्रेरयथः। ईर प्रेरणे चौरादिकः। सारघेव सारघाविव। सरघा मधुमक्षिका। सरघैव सरघा। प्रज्ञादित्वादण्। पा. ५-४-३८। ते यथा नीचीनबारे नीचीनद्वारे मधुपुष्पे मधु प्रेरयतः तद्वद्युवां नीची नबारे न्यग्भुतद्वारे गवि गॊरूधसि क्षीरं प्रक्षिपथः। कीनारेव कीनाराविव कुत्सितमनुष्यौ यथा स्विद्यमानौ भवतः तद्वत्स्वेदं स्विद्यमानम् जलमासिस्विदाना समन्तात् स्वेदयन्तौ प्रक्शारयन्तौ भवथः। ञिष्विदा गात्रप्रक्षरणे। अनुदात्तेत्। तस्माच्छान्दसे लिटि कानजादेशः। क्षामेव। क्षै जै षै क्षये। अस्मादातो मनिन्। ह्रस्वश्छान्दसः। क्षामा क्षीणा गौः सुयवसात्। अदेः क्विप्। शोभनं युवसं घासादिकं भक्षयन्ती क्षीररूपेणान्नेन समवेता यथा भवति तद्वद्युवामूर्जा हवीरूपेणान्नेन सचेथे। सङ्गच्छेथे। ष च समवाये॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः