मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०६, ऋक् ११

संहिता

ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं॑ स॒रथे॒होप॑ यातम् ।
यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो॑ अ॒श्विनो॒ः काम॑मप्राः ॥

पदपाठः

ऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् ।
यशः॑ । न । प॒क्वम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । भू॒तऽअं॑शः । अ॒श्विनोः॑ । काम॑म् । अ॒प्राः॒ ॥

सायणभाष्यम्

हे अश्विनौ वयं स्तोमं त्रिवृत्पञ्चदशादिकमृध्याम। ऋध्यास् वर्धयेम। ऋधु वृद्धौ। अस्मादाशीर्लिङि किदाशिषीति यासुटः कित्त्वम्। वाजम् हविर्लक्षनमन्नं युवाभ्यां सनुयाम। प्रयच्छेम। षणु दाने तानादिकह् विधिलिङ्। वाक्यभेदादनिघातः। तस्माद्युवाम् सरथा सरथौ समानरथावेकमेव रथमारूढौ सन्ताविहास्मिन्कर्मनि सोऽस्मदीयं मन्त्रं मननीयं स्तोत्रमुपयातम्। उपागच्छतम्। गोष्वन्तर्गोरूधस्यवस्थितं पक्वं परिनतं अत एव मधु मधुरम् यशो न। यश इत्यन्ननाम। नश्चार्थे। क्षीराज्यादिलक्षणं महावीरेऽवनीयमानमन्नं चापेक्ष्यागच्छतमिति सम्बन्धः। एवमुक्तप्रकारेन भुतांश एतन्नामर्षिरश्विनोः काममभिलाषमात्मीयाभिः स्तुतिभिरप्राः। आपूरयत्। सम्पूर्णमकार्षीदित्यर्थः। प्रा पूरने आदादिकः। व्यत्ययेन मध्यमः। अत्राश्विने सूक्ते सर्वाण्यपि पदानि दुर्व्युत्पादान्यस्माभिर्दिङ्मात्रं प्रदर्शितानि। एवम् निरुक्तव्याकरनादिभिरर्थविशेषे बुद्धिमद्भिरुन्नेयानि॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः