श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः ।
ये पृ॒णन्ति॒ प्र च॒ यच्छ॑न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरम् ॥
श॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्वः॒ऽविद॑म् । नृ॒ऽचक्ष॑सः । ते । अ॒भि । च॒क्ष॒ते॒ । ह॒विः ।
ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒म्ऽग॒मे । ते । दक्षि॑णाम् । दु॒ह॒ते॒ । स॒प्तऽमा॑तरम् ॥
शतधारम् बहुधारेणोपेतं वायुमेतन्नामकं स्व्वर्विदं स्वर्गस्य लम्भकं सर्वस्य वेत्तारं वार्कमर्चनीयमादित्यं च तौ नृचक्षसो नृणां द्रष्टॄनन्यानिन्द्रादीन्देवांश्चाभिलक्ष्य ते यजमाना हविश्चक्षते। तेभ्यो दातुं पश्यन्ति जानन्ति। चष्टेर्लटि रूपम्। किञ्च सङ्गमे। कर्मकरणार्थमृत्विजोऽत्र सङ्गञ्च्छन्त इति सङ्गमः। ग्रहवृद्धनिश्चिगमश्चेत्यधिकरनेऽप्। थाथादिस्वरः। तस्मिन्यज्ञे ये यश्टारः पृणन्ति स्तुतिभिः प्रीणयन्ति। ये च तेभ्यो देवेभ्यो हवींषि प्रयच्छन्ति। उभयत्र यद्योगादनिघातः। ते सप्तमातरम् । सप्तस~ख्याका मातृभुता अग्निष्टोमादिसम्स्था यस्याम् भवन्ति सा। यद्व सप्तसङ्ख्याका मातरः कर्मणां निर्मातारः कर्तारो होत्रादयः सन्ति। तादृशीं दक्षिणां दुहते। ऋत्विग्भ्यो दुहन्ति॥४॥