मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् ५

संहिता

दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति ।
तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥

पदपाठः

दक्षि॑णाऽवान् । प्र॒थ॒मः । हू॒तः । ए॒ति॒ । दक्षि॑णाऽवान् । ग्रा॒म॒ऽनीः । अग्र॑म् । ए॒ति॒ ।
तम् । ए॒व । म॒न्ये॒ । नृ॒ऽपति॑म् । जना॑नाम् । यः । प्र॒थ॒मः । दक्षि॑णाम् । आ॒ऽवि॒वाय॑ ॥

सायणभाष्यम्

हूत ऋत्विग्भिराहूतो दक्षिणावान्यजमानः प्रथमः सर्वेषां मुख्यः सन्नेति। सर्वत्र गच्छाति। तथा ग्रामणीर्ग्रामाणां नेता धववत्त्वेन तेषां कर्ता दक्षिणावान् सोऽग्रमेति। सर्वेषां प्रथममेव गच्छाति। तमेव नृपतिं नरानाम् पालयितारमिति मन्य ऋषिरहमवबुध्ये प्रथमो यो जनानां दक्षिणामाविवाय आगमयति। वीगत्यादिषु। तस्य लिटि रूपम्। तं न्रुपतिमिति मन्ये। यद्वा। जनानामिति पूर्ववाक्यशेषः। जनानां मध्ये तमेव मनुष्याणां स्वामिनमिति मन्ये॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः