मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् ७

संहिता

दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर॑ण्यम् ।
दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥

पदपाठः

दक्षि॑णा । अश्व॑म् । दक्षि॑णा । गाम् । द॒दा॒ति॒ । दक्षि॑णा । च॒न्द्रम् । उ॒त । यत् । हिर॑ण्यम् ।
दक्षि॑णा । अन्न॑म् । व॒नु॒ते॒ । यः । नः॒ । आ॒त्मा । दक्षि॑णाम् । वर्म॑ । कृ॒णु॒ते॒ । वि॒ऽजा॒नन् ॥

सायणभाष्यम्

दक्षिणा तद्दातृभ्योऽश्वं ददाति। तथा गां च ददाति तथा चन्द्रं सुवर्णं ददाति। उतापि च यद्धिरण्यं रजतमस्ति। रजतं हिरण्यमित्याम्नानात्। तच्च ददाति। किञ्च सान्नं वनुते। ददाति। वनोतिरत्र दानार्थः। तस्मान्नोऽस्मदीयो य आत्मास्ति स वर्म विजानन् कवचं यथायुधानां निवारकं तद्वद्दुरितानि वारयतीति कवचमिति विजानन् दक्षिणामश्वादिदानशीलां कृणुते। ऋत्विग्भ्यः करोति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः