मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् ८

संहिता

न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः ।
इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥

पदपाठः

न । भो॒जाः । म॒म्रुः॒ । न । नि॒ऽअ॒र्थम् । ई॒युः॒ । न । रि॒ष्य॒न्ति॒ । न । व्य॒थ॒न्ते॒ । ह॒ । भो॒जाः ।
इ॒दम् । यत् । विश्व॑म् । भुव॑नम् । स्वः॑ । च॒ । ए॒तत् । सर्व॑म् । दक्षि॑णा । ए॒भ्यः॒ । द॒दा॒ति॒ ॥

सायणभाष्यम्

भोजा भोजयितारो धनादिदानेन दातारो न मम्रुः। न म्रियन्ते। देवत्वं भजन्त इत्यर्थः। अत एव न्यर्थम् । ऋ गतौ। उषिकुषिगार्तिभ्यस्थन्। उ. २-४। समासे थाथादिस्वरः। निक्रुष्टां गतिं नेयुः। न प्राप्नुवन्ति। इण् गतौ। लिटि दीर्घ इणः कितीति दीर्घः। तथा च न रिष्यन्ति। कैश्चिदप्यहिंसिता भवन्ति। कर्मणि व्यत्यौयेन परस्मैपदम्। अत एव भोजा दातारो न व्यथन्ते। परस्परं न भीता न बाधिता वा भवन्ति। ह प्रसिद्धौ। किञ्चेदं परिदृश्यमानं विस्वं सर्वं भुवनं यद्भूतजातमस्ति स्वश्च स्वर्गलोकश्च एतत्सर्वम् दक्शिणा स्वयमेभ्यस्तद्दातृभ्यो ददाति। प्रयच्छति॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः