मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् १०

संहिता

भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुम्भ॑माना ।
भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ॥

पदपाठः

भो॒जाय॑ । अश्व॑म् । सम् । मृ॒ज॒न्ति॒ । आ॒शुम् । भो॒जाय॑ । आ॒स्ते॒ । क॒न्या॑ । शुम्भ॑माना ।
भो॒जस्य॑ । इ॒दम् । पु॒ष्क॒रिणी॑ऽइव । वेश्म॑ । परि॑ऽकृतम् । दे॒व॒मा॒नाऽइ॑व । चि॒त्रम् ॥

सायणभाष्यम्

भोजाय दात्र आशुं शीघ्रगामिनमश्वं सं म्रुजन्ति। परिचारकाः सम्यगलङ्कुर्वन्ति। मृजू शौचालङ्कारयोः। तथा कन्या। कन्यात्वेनात्र सन्निकर्षादभिनवं यौवनं लक्ष्यते। अभिनवयौवना शुंभमाना शरीरावयवशोभया वस्त्राद्यलङ्कारशोभया च शोभमाना स्त्री तस्मै भोजाय दात्र आस्ते। तथा भोजस्य दातुरेव हृदयाह्लादकरम् वेश्म गृहं भवति। कीदृशम् । पुष्करिणीव। पुष्कराणि पद्मानि यस्याः सन्तीति पुष्करणी सरसी। सा यथा पद्महंसादिभिरलङ्कृता भवति तद्वत् परिष्कृतं वितानादिभिरलङ्कृतम्। परिपूर्वस्य करोतेर्भूषणार्थे संहितायां सुडागमः। परिनिविभ्य इति सुटः षत्वम्। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। तथा देवमानेव। सुपां सुलुगिति प्रथमैकवचनस्याकारः। देवमानमिव चित्रं मनोहरं वेश्म तस्य भवति॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः