मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् ११

संहिता

भो॒जमश्वा॑ः सुष्ठु॒वाहो॑ वहन्ति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः ।
भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्त्समनी॒केषु॒ जेता॑ ॥

पदपाठः

भो॒जम् । अश्वाः॑ । सु॒ष्ठु॒ऽवाहः॑ । व॒ह॒न्ति॒ । सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । दक्षि॑णायाः ।
भो॒जम् । दे॒वा॒सः॒ । अ॒व॒त॒ । भरे॑षु । भो॒जः । शत्रू॑न् । स॒म्ऽअ॒नी॒केषु॑ । जेता॑ ॥

सायणभाष्यम्

सुष्ठुवाहः। वह प्रापने। वहश्चेति ण्विप्रत्ययः। शोभनवहनसमर्था अश्वा भोजं दातारं वहन्ति। लक्ष्यं देशं प्रापयन्ति। ततो दक्षिणाया दातुर्यजमानस्य सुवृत् सुष्ठु चक्रादिवर्तनं यस्य सोऽश्वादिसहितो रथो वर्तते। अथ प्रत्यक्षः। हे देवासो हे देवा इन्द्रादयः भरेषु। भ्रियत आहवनीयादिरूपेणागिन्रत्रेति भरा यज्ञाः। यद्वा। भॄ भर्त्सने। भृणन्ति भर्त्सयन्ति योद्धारोऽत्रेति भराः सङ्ग्रामाः। तेषु भोजं दातारमवत। रक्षत। ततो युश्माभिः पालितो भोजो धनादिदानेन जनानां भोजयिता सन् समनीकेषु सङ्ग्रामेषु शत्रूञ्जेता जयशीलो भवति। जि जये। ताच्छीलिकस्तृन्। अत एव न लोकाव्ययेति शत्रुशब्दस्य षष्ठीप्रतिषेधः॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः