मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०८, ऋक् ४

संहिता

नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् ।
न तं गू॑हन्ति स्र॒वतो॑ गभी॒रा ह॒ता इन्द्रे॑ण पणयः शयध्वे ॥

पदपाठः

न । अ॒हम् । तम् । वे॒द॒ । दभ्य॑म् । दभ॑त् । सः । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रम् । प॒रा॒कात् ।
न । तम् । गू॒ह॒न्ति॒ । स्र॒वतः॑ । ग॒भी॒राः । ह॒ताः । इन्द्रे॑ण । प॒ण॒यः॒ । श॒य॒ध्वे॒ ॥

सायणभाष्यम्

सरमा वदति। हे पनयः तमिन्द्रम् दभ्यं हन्तव्यमिति न वेद। न जानामि। दभेरचो यत्। कथम् । स इन्द्रो दभत्। सर्वाञ्जनान्दभति। हिनस्त्वेव। दभेर्लेटि रूपम्। वाक्यभेदादनिघातः। यस्य दूतीर्दूत्यहमिदं युष्मदीयम् स्थानं पराकादतिदूराद्देशादसरं प्राप्ताभूवम्। इन्द्रो हिंसितव्यो न भवतित्यत्र युक्तिमाह। स्रवतः। स्रवणं स्रवः। तमाचरन्ति। आचारार्थे क्विप्। तुगागमः। जसि रूपम्। स्रवणशीला गभीरा गम्भीरा नद्यस्तमिन्द्रं न गुहन्ति। न संवृण्वन्ति। नाच्छादयन्ति। किन्त्वाविष्कुर्वन्ति। वयं यस्य महिम्ना समुद्रं प्रतिसरामः। तस्मादहिंस्य इत्येनं प्रकटीकुर्वन्ति। गुहू संवरणे भौवादिकः। तस्माद्धे पणयः यूयमिन्द्रेण तादृशपराक्रमेण हताः सन्तः शयध्वे। शीञ् स्वप्ने। बहुलं छन्दसीति शपो लुगभावः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः